( १ ) पवित्रीकरणम्
ॐ अपवित्र: पवित्रो वेत्यस्य वामदेव ऋषि: विष्णुर्देवता गायत्रीच्छन्द: हृदि पवित्रकरणे विनियोग:।
ॐ अपवित्र पवित्रो वा सर्वावस्थां गतोऽपि वा।
य: स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर: शुचि:।।
( २ ) त्रिराचमनम्
अन्तर्जानुहस्त: संहताङ्गुलिना शुद्धजलं गृहीत्वा मुक्ताङगुष्ठकनिष्ठेनवामेनान्वारब्धपाणिना ब्रह्मतीर्थेन त्रिरप: पिबेत्।
१ 👉 ॐ केशवाय नमः
२ 👉 ॐ नारायणाय नमः
३ 👉 ॐ माधवाय नमः
४ 👉 ॐ हृषीकेशाय नमः
( ३ ) आसनशुद्धि:
ॐ पृथ्वीतिमन्त्रस्य मेरुपृष्ठ ऋषि: सुतलं छन्द: कूर्मो देवता आसने विन