कृष्णाष्टकम् | Krishna Prem-mayi Radha | Vallabhacharya

Views: 4
Get Embed Code

कृष्णाष्टकम् कृष्णप्रेममयी राधा राधाप्रेममयो हरिः। जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥ १ कृष्णस्य द्रविणं राधा राधायाः द्रविणं हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥ २ कृष्णप्राणमयी राधा राधाप्राणमयो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥ ३ कृष्णद्रवामयी राधा राधाद्रवामयो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥ ४ कृष्णगेहे स्थिता राधा राधागेहे स्थितो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥ ५ कृष्णचित्तस्थिता राधा राधाचित्तस्थितो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥ ६ नीलाम्बरा धरा राधा पीताम्बरो धरो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥ ७ वृन्दावनेश्वरी राधा कृष्णो वृन्दावनेश्वरः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥ ८

You need to be a member of ISKCON Desire Tree | IDT to add comments!

Join ISKCON Desire Tree | IDT

E-mail me when people leave their comments –