Purushöttamā Prapattishatkam by Mahārishi Bodhāyan (Purushöttamāchārya)
रामिति बीजवान् नाथ मन्त्रराजो हि तारकः
तं जपामि तब प्रीत्यै पाहि मां पुरुषोत्तम ॥ 1 ॥
राम दोनोऽनुकूलोऽहं विश्वस्तोऽप्रातिकूल्यवान् ।
त्वयि न्यस्यामि चात्मानं पाहि मां पुरुषोत्तम ॥ 2 ॥
मामनाथे स्वशेषं च न्यासितं स्वार्थमेव हि ।
निर्भरं स्वभरत्वेन पाहि मां पुरुषोत्तम ॥3॥
यस्मिन् देहेऽहमानीतः कर्मणा स्वेन राघव ।
तदन्ते देहि सायुज्यं पाहि मां पुरुषोत्तम ॥4॥
न गतिजनकीनाथ! त्वां बिना परमेश्वर ।
परां गति प्रपन्नं त्वां पाहि मां पुरुषोत्तम ॥5॥
मोहितो मायया तेऽहं दैव्या गुणविशिष्टया ।
शरण्यं त्वां प्रपन्नोऽस्मि पाहि मां पुरुषोत्तम ॥6॥
Comments